वाचस्पत्यम्
शद || गतौ भ्वा० षर० सार्वधातुके आत्म० सक० अनिट् । शीयते
वाचस्पत्यम्
शद || पु० शद—अच् । फलभूलादौ सिद्धान्तकौ० ।
वाचस्पत्यम्
शद || शातने शीर्णतायां भ्वा० पर० अक० अनिट् ऌदित् । शीयते अशदत् । शत्स्यति
शब्दकल्पद्रुमः
शद || ऌ ज औ शाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सक० च-अनिट् ।)
ऌ, अशदत् । ज, शादः शदः । औ, शत्स्यति । शातः पतनं पातनञ्च । शीयते पत्रं वृक्षात् वायुः । शदोऽपि ममित्यव्विषये आत्मनेपदम् । केचि- दिमं तुदादौ पठित्वा तत्सामर्थ्यात् आत्मने- पदानित्यत्वे शीयती शीयन्तीत्युदाहरन्ति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शद || औ गतौ । आङ्पूर्व्वोऽयमिति कविकल्प- द्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।)
ताल- व्यादिः । आशीयते । औ, आशात्सीत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शदः || पुं, फलमूलादिः । शदधातोरच्प्रत्ययेन निष्पन्नमेतत् । इति सिद्धान्तकौमुदी ॥