संस्कृत-शब्दकोशः

शन्स शपथ

शप

वाचस्पत्यम्

शप ||‍ आक्रोशे वा भ्वा० पक्षे दिवा० उभ० सक० अनिट् । शपति ते शप्यति ते अशाप्सीत् ।

शब्दकल्पद्रुमः

शप || औ ञ क्रोशे । इति कविकल्पद्रुमः । (दिवा०-भ्वा०-च-उभ०-सक०- अनिट् ।)
द्बौ तालव्यादी । य ञ, शप्यति शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ, शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन- मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् । क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे- ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते गापी । प्रजेति त्वां शशाप सा । इति रघौ । सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः । केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा- षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभृते । इति माघः । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

शपः || पुं, शपथः । इति हेमचन्द्रः ॥ निर्भर्त्सनम् । गालिदानम् । इति शपधात्वर्थदर्शनात् ॥

शब्दकल्पद्रुमः

शप || य ञ औ क्रोशे । इति कविकल्पद्रुमः । (दिवा०-भ्वा०-च-उभ०-सक०- अनिट् ।)

Correction: