वाचस्पत्यम्
शपथ || पु० शप—अथन् । सत्यताकरणाय दिव्यभेदकरणे यथा एतत् यदि मिथ्या स्यात् तदा मे एतदनिष्टं स्यादित्यादि
शब्दकल्पद्रुमः
शपथः || पुं, (शप क्रोशे + “शीङ्शपिरुशमौति ।” उणा० ३ । ११३ । इति अथः ।)
अनृतं वदन् घोरं नरकं यास्यामि इत्येवं रूपं मिथ्यानिर- मनम् । सत्यावधारणम् । इति साञ्झः । वाचा शरीरस्पर्शनम् । इति गोयीचन्द्रः ॥ शपथो दिव्यम् । इति रमानाथः । इति भरतः ॥ तत्- पर्य्यायः । शपनम् २ । इत्यमरः ॥ शपः ३ । इति हेमचन्द्रः ॥ सत्यम् ४ समयः ५ शापः ६ प्रत्ययः ७ अभिषङ्गः ८ । इति जटाधरः ॥ * ॥
चतुष्पादव्यवहारस्य क्रियापादाङ्गम् । यथा । अथ शपथः । “युक्तिष्वप्यवसन्नासु शपथैरेनमर्द्दयेत् । अर्थकालवलापेक्षमग्न्यम्बुसुकृतादिभिः ॥” अर्थस्य विवादास्पदस्य बलं बह्वल्पभावः । कालस्य च बलं पुण्यापुण्यत्वम् । तदपेक्षं यथा स्यादित्यर्थः । दूर्व्वाकरत्वस्य पुत्त्रादिस्पर्शस्य चाग्रे दर्शनीयत्वात् । अत्र मयैतत् कृतं न वा इति प्रतिज्ञामुच्चार्य्याग्नौ जले वा हस्तं प्रक्षि- पेत् । एतन्मिथ्यात्वे मम सुकृतं नश्येदिति वा ब्रूयात् । न त्वग्निपरीक्षां जलपरीक्षां वा कुर्य्यात् इत्यभिप्रायवर्णनं युक्तम् । तस्या महाभियोग- विषयकत्वेन शपथसमभिव्याहारानर्हत्वात् । सुकृतादिभिरित्यादिना दूर्व्वासत्याभ्युपग्रहः । तथा च विष्णुः । सर्व्वेष्वेवार्थजातेषु मूल्यं कनकं प्रकल्पयेत् । तत्र कृष्णलोने शूद्रं दूर्व्वाकरं शापयेत् । द्विकृष्णलोने तिलकरम् । त्रिकृष्ण- लोने जलकरम् । चतुःकृष्णलोने स्वर्णकरम् । पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । सुवर्णार्द्धोने कोषो देयः । शूद्रस्य यथासमये विहिता क्रिया तथा द्बिगुणेऽर्थे राजन्यस्य त्रिगुणेऽर्थे वैश्यस्य चतुर्गुणेऽर्थे ब्राह्मणस्येति । कृष्णलः काञ्चन- रत्तिका तन्मूल्यादूने कृष्णलोने एवमन्यत्र । मनुः । “सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः । पुत्त्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् ॥” ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञा- मुच्चार्य्य सत्यमिति वक्तव्यम् । तथैव क्षत्त्रियेण वाहनायुधं स्प्रष्टव्यम् । तथैव वैश्येन गोबीज- काञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु पूर्व्वोक्तं सर्व्वमेव स्प्रष्टव्यम् । तेषां वृथाकृतस्पर्शानां पातकहेतुत्वात् पातकशब्देन निर्द्देशः । हला- युधोऽप्येवम् । दैवक्रियाविषयमाह नारदः । “अरण्ये निर्ज्जने रात्रावन्तर्वेश्मनि साहसे । न्यासापहरणे चैव दिव्या सम्भवति क्रिया ॥” बृहस्पतिः । “देवब्राह्मणपादांश्च पुत्त्रदारशिरांसि च । एते तु शपथाः प्रोक्ता मनुना स्वल्पकारणे । साहसेष्वभिशापे च दिव्यानि तु विशोधनम् ॥” अत्र शपथदिव्ययोः पृथक्त्वप्रतीतेः शपथे न दिव्यधर्म्माः । किन्तु वैधे कर्म्मणि तत्र शौचार्थं स्नानाचमनादि कार्य्यम् । दिव्यानि तु दिव्यतत्त्वे कथितानि नात्र लिखितानि । अत्राभियुक्तेन शपथः कर्त्तव्य इत्युत्सर्गः । उभयेच्छया अभि- योक्तापि । इत्याह नारदः । “अभियोक्ता शिरोवर्त्ती सर्व्वत्रैव प्रकीर्त्तितः । इच्छयान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥” इतरः शपथकर्त्तृभिन्नः । तथा कात्यायनः । “आचतुर्द्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥” व्यसनमापत् । धोरमतिपीडाकरम् । तथा च कोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः । “रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा । तमशुद्धं विजानीयात्तथा शुद्धं विपर्य्ययात् ॥” कात्यायनः । “तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥ ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् । नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥ शिरोरुगगुदभङ्गश्च दैविका व्याधयो नृणाम् ॥” तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः । “न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥” कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा शपथः । एवं विवाहसिद्ध्यर्थं गोग्रासार्थं आवश्यकहोमेन्धनार्थं ब्राह्मणरक्षार्थमङ्गीकृत- धनादौ । यमः । “वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् । अनृतेन च युज्येत वधेन च तथा नरः । तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥” कीटस्येति प्राणिमात्रोपलक्षणम् । तद्बधपापेन वृथाशपथकर्त्ता युज्यत इत्यर्थः । इति व्यवहार- तत्त्वम् ॥