वाचस्पत्यम्
शप्त || त्रि० शप—क्त । १ अभिशापग्रस्ते २ उलपाख्ये तृणभेदे पु० शब्दच० ।
शब्दकल्पद्रुमः
शप्तः || पुं, (शप + क्तः ।)
तृणविशेषः । इति शब्द- चन्द्रिका ॥ उलु इति भाषा ॥ अभिशापग्रस्ते, त्रि ॥ (यथा, भागवते । १ । १८ । ४१ । “निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् ॥”)