शब्द
शब्दग्रह
शब्दकार
शब्दकल्पद्रुमः
शब्दकारः || त्रि (शब्दं करोतीति । कृ + अण् । “न शब्दश्लोककलहगाथेति ।” ३ । २ । २४ । इति टप्रतिषेधः ।)
शब्दं करोति यः । यथा, “सतामरुस्करं पक्षी वैरकारं नराशनम् । हन्तुं कलहकारोऽसौ शब्दकारः पपात खम् ॥” इति भट्टौ ५ सर्गः ॥