संस्कृत-शब्दकोशः

शब्दकार शब्दतन्मात्र

शब्दग्रह

वाचस्पत्यम्

शब्दग्रह ||‍ पु० शब्दं गृह्वाति ग्रह—अच् । १ श्रोत्रेन्द्रिये घञर्थे अप् ६ त० । २ शब्दज्ञाने ।


शब्दकल्पद्रुमः

शब्दग्रहः || पुं, (शब्दं गृह्णात्यनेनेति । ग्रह + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।)
कर्णः । इत्यमरः ॥ शब्दस्य ज्ञानञ्च ॥



Correction: