वाचस्पत्यम्
शमीक || पु० शम—बा० ईक । मुनिभेदे ।
शब्दकल्पद्रुमः
शमीकः || पुं, मुनिविशेषः । यथा, —
“जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥” इति श्रीभागवते । १ । १८ ॥ अस्यार्थः । अचक्षाणः अपश्यन् । तं प्रसिद्ध- माश्रमं तस्मिन् मुनिं शमीकम् । इति श्रीधर- स्वामी ॥