वाचस्पत्यम्
शमी is an alternate of शमि. शमि(मी) || स्त्री शम—इन् वा ङीप् । (शाँव) १ वृक्षभेदे “शमी तिक्ता कटुः शीता कषाया रेचनी सघुः । कम्प- कासश्रमश्वासकुष्टार्शःकृमिजित् स्मृता” मावप्र० । २ शिम्बायाच्च (शुँटि) हेमच० । ३ बाङ्खजौ मेदि० ।
शब्दकल्पद्रुमः
शमी || स्त्री वृक्षविशेषः । शाँइ इति भाषा । (यथा, शाकुन्तले । ३ । “अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥”)
तत्पर्य्यायः । शक्तुफला २ शिवा ३ । इत्यमरः ॥ शक्तुफली ४ । इति शब्दरत्नावली ॥ शान्ता ५ तुङ्गा ६ कचरिपुफला ७ केशमथनी ८ ईशानी ९ लक्ष्मीः १० तपनतनया ११ इष्टा १२ शुभ- करी १३ हविर्गन्धा १४ मेध्या १५ दुरितदमनी १६ शक्तुफलिका १७ समुद्रा १८ मङ्गल्या १९ सुरभिः २० पापशमनी २१ भद्रा २२ शङ्करी २३ केशहन्त्री २४ शिवाफला २५ सुपत्रा २६ सुखदा २७ । अस्य गुणाः । रूक्षत्वम् । कषा- यत्वम् । रक्तपित्तातिसारनाशित्वञ्च । तत्फल- गुणाः । गुरुत्वम् । स्वादुत्वम् । रूक्षत्वम् । उष्णत्वम् । केशनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “शमी शक्तुफला तुङ्गा केशहन्त्री शिवाफला । मङ्गल्या च तथा लक्ष्मीः शमीरः स्वल्पिका स्मृता ॥ शमी तिक्ता कटुः शीता कषाया रेचनी लघुः । कम्पकासश्रमश्वासकुष्ठार्शःकृमिजित् स्मृता ॥” इति भावप्रकाशः ॥ * ॥
शिम्बा । छिमडा इति भाषा । इत्यमरः ॥ वागुजिः । इति मेदिनी ॥ (कर्म्म । यथा, ऋग्- वेदे । ६ । २ । २ । “ईजे यज्ञेभिः शशमे शमीभिः ।” “शमीभिः कर्म्मभिः कृच्छ्रचान्द्रायणादिभिः ॥” इति तद्भाष्ये सायणः ॥)