शब्दकल्पद्रुमः
शम्बूकः || पुं, स्त्री, (शम् + “उलूकादयश्चेति” उणा० ४ । ४१ । इति उकः वुगागमश्च निपात्यते ।)
जलजन्तुविशेषः । शामूक इति भाषा । तत्- पर्य्यायः । जलशुक्तिः २ । इत्यमरः ॥ शम्बुका ३ शम्बुकः ४ शम्बुक्कः ५ शाम्बुकः ६ शम्बुः ७ शाम्बुक्कः ८ । इति शब्दरत्नावली ॥ जल- डिम्बः ९ दुश्चरः १० पङ्कमण्डूकः ११ । इति हारावली ॥ पुं, गजकुम्भान्तर्भागः । घोङ्गः । शूद्रतापसः । (यथा, उत्तरचरिते । २ । “दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरयं मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥”)
इति मेदिनी ॥ दैत्यविशेषः । शङ्खः । इति हेमचन्द्रः क्षुद्रशङ्खः । इति राजनिर्घण्टः ॥