वाचस्पत्यम्
शम्या || स्त्री शम—यत् टाप् । १ युगकीलके अमरः । २ दक्षहस्त- दत्ततालभेदे संगीतदा० ।
शब्दकल्पद्रुमः
शम्या || स्त्री (शम्यतेऽनयेति । शम + यत् । टाप् ।)
युगकीलकः । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ । ३३ । १३ । “उद्व ऊर्म्मिः शम्याः हन्त्वापो योक्त्राणि मुञ्चत ॥”)
दक्षिणहस्तगृहीततालविशेषः । इति सङ्गीत- शास्त्रम् ॥ (दण्डयष्टिः । इति मेधातिथिः ॥ यथा, मनुः । ८ । २३७ । “शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥”)