शब्दकल्पद्रुमः
शम्याक्षेपः || पुं, (शम्यायाः क्षेपो यत्र ।)
भ्रमित- क्षिप्तयष्टिप्राप्तयावद्भूप्रदेशः । यथा, —
“भ्रामयित्वा बहुगुणं यष्टिः क्षिप्ता समाप्नुयात् । भुवः प्रदेशं यावन्तं शम्याक्षेपः स उच्यते ॥” इति मार्कण्डेयपुराणे विविंशचरितं नामा- ध्यायः ॥ (यज्ञविशेषः । यथा, महाभारते । ३ । ९० । ५ । “पुण्यञ्चाख्यायते दिव्यं शिवमग्निशिरोऽनघ । सहदेवोऽयजत् यत्र शम्याक्षेपेण भारत ! ॥” “बलवता क्षिप्ता शम्या लगुडविशेषो यावद्दूरं पतेत् तावान् यज्ञमण्डपो यस्मिन् यज्ञे न शम्या- क्षेपस्तेन ।” इति तट्टीकायां नीलकण्ठः ॥)