वाचस्पत्यम्
शयनीय || न० शी—आधारे अनीयर् । शय्यायाम् स्वार्थे क । तत्रैव ।
शब्दकल्पद्रुमः
शयनीयं || क्ली (शेतेऽस्यामिति । शी + अधिकरणे अनीयर् ।)
शय्या । इत्यमरः ॥ (यथा, माघे । ११ । ५ । “रतिपरिचयनश्यन्नैद्रतन्द्रः कथञ्चित् गमयति शयनीये शर्व्वरीं किं करोतु ॥” * ॥
)
शयनयोग्ये, त्रि ॥ (यथा, रामायणे । २ । ७२ । ११ । “शून्योऽयं शयनीयस्ते पर्य्यङ्को हेमभूषितः । न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ॥”)