संस्कृत-शब्दकोशः

शयितवान् शयुन

शयु

वाचस्पत्यम्

शयु ||‍ पु० शी—उ । १ अजगरे सर्पे अमरः । उनन् । शयुनो- ऽप्यत्र उणादिको० ।


शब्दकल्पद्रुमः

शयुः || पुं, (शेते इति । शी + उः ।)
अजगरः । इत्यमरः ॥ (ऋषिविशेषः । यथा, ऋग्वेदे । १ । २१२ । १६ ॥ “याभिर्नरा शयवे याभिरत्रये ॥” “हे नरा नेतारावश्विनौ पुरा पूर्व्वस्मिन् काले शयवे एतत् संज्ञकाय ऋषये ।” इति तद्- भाष्यम् ॥ शयाने, त्रि । यथा, ऋग्वेदे । ४ । १८ । १२ । “कस्ते मातरं विधवामचक्रत् शयुं कस्त्वामजिघांसच्चरन्तम् ॥” “कस्त्वत्तोऽन्यः शयुं शयानं चरन्तं जाग्रतं वा त्वां अजिघांसत् ।” इति तद्भाष्यम् ॥)


वाचस्पत्यम्

शंयु ||‍ त्रि० शमस्त्यस्य शम् + युस् । शुभान्विते त्रिका० ।


शब्दकल्पद्रुमः

शंयुः || त्रि (शंशुभमस्यास्तीति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । २ । १३८ । इति युस् ।)
शुभान्वितः । इति त्रिकाण्डशेषः ॥ (यथा, भट्टिः । ४ । १८ । “कुर्व्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥” पुं, बृहस्पतिपुत्त्रोऽग्निविशेषः । यथा, महा- भारते । ३ । २१८ । २ । “आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाब्रतः ॥”)



Correction: