संस्कृत-शब्दकोशः

शरणा शरणापन्न

शरणागत

वाचस्पत्यम्

शरणागत ||‍ त्रि० शरणमागतः आ + गम—क्त । शरणापन्ने ।


शब्दकल्पद्रुमः

शरणागतः || त्रि (शरणमागतः प्राप्तः ।)
शरणा- पन्नः । तत्पर्य्यायः । शरणार्पकः २ अभिपन्नः ३ शरणार्थी ४ । इति त्रिकाण्डशेषः ॥ तद्रक्षणा- रक्षणयोः गुणदौषौ यथा, —
“शस्त्रहीनञ्च भीतञ्च दीनञ्च शरणागतम् । यो न रक्षत्यधर्म्मिष्ठः कुम्भीपाके वसेद्युगम् ॥ राजसूयशतानाञ्च रक्षिता लभते फलम् । परमैश्वर्य्ययुक्तश्च धर्म्मेण स भवेदिह ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः ॥ * ॥
अपि च । “शरणागतरक्षां यः प्राणैरपि धनैरपि । कुरुते मानवो ज्ञानी तस्य पुण्यं निशामय ॥ सर्व्वपापविनिर्मुक्तो ब्रह्महत्यामुखैरपि । आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्लभम् ॥” इति पाद्मे क्रियायोगसारे गङ्गामाहात्म्यं नाम ८ अध्यायः ॥ अन्यच्च । “लोभाद्द्वेषाद्भयाद्वापि यस्त्यजेत् शरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहातुस्तु न दृष्टा निष्कृतिः क्वचित् ॥” इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥



Correction: