शब्दकल्पद्रुमः
शरदिजं || त्रि (शरदि जायते यत् । जन + डः । “प्रावृट्शरत्कालदिवां जे ।” ६ । ३ । १५ । इति सप्तम्या अलुक् ।)
शरत्कालजातम् । यथा, “नद्यः प्रावृषिजास्तु पीनसकफश्वासार्त्तिकाश- प्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः । सन्तापं शमयन्ति संविदधते शैशिर्य्यवासन्तजा- स्तृष्णादाहवमिश्रमार्त्तिशमदा ग्रीशे यथास्वं गुणाः ॥ इति राजनिर्घण्टः ॥