वाचस्पत्यम्
शरधि || पु० शरा धीयन्तेऽत्र धा—आधारे कि । तूणे हेमच०
शब्दकल्पद्रुमः
शरधिः || पुं, (शरा धीयन्तेऽस्मिन्निति । शर + धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।)
तूणः । इति हेमचन्द्रः ॥ (यथा, राजेन्द्रकर्णपूरे । ३३ । “धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः केरवबान्धवोदयधिया धुन्वन् धनु- र्धावति ॥”)