संस्कृत-शब्दकोशः

शरधि शरभ

शरपुङ्खा

वाचस्पत्यम्

शरपुङ्खा ||‍ स्त्री शरस्येव पुङ्खो यस्याः । नीलीधृक्षाकृतौ काण्ड- पुङ्खावृक्षे “शरपुङ्खा यकृत्प्लीहगुल्मव्रणविषापहा । तिक्ता कषाया कासास्नज्वरश्वासहरी लघुः” भावप्र० ।


शब्दकल्पद्रुमः

शरपुङ्खा || स्त्री पुं, (शरस्य पुङ्खेव आकृतिर्यस्याः ।)
नीलीवृक्षाकृतिवृक्षविशेषः । शरफोका इति हिन्दीभाषा । तत्पर्य्यायः । काण्डपुङ्खा २ बाण- पुङ्खा ३ इषुपुङ्खिका ४ शायकपुङ्खा ५ इषुपुङ्खा ६ । तस्या गुणाः । कटुत्वम् । उष्णत्वम् । कृमि- वातरुजापहत्वम् । श्वेताया गुणाढ्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः । तिक्तः कषायः कासास्रज्वरश्वासहरो लघुः ॥” इति भावप्रकाशः ॥ बाणस्य पक्षे, पुं ॥ (क्ली, यन्त्रविशेषः । यथा, सुश्रुते । १ । ७ । “तेषां गण्डूपदशरपुङ्खसर्प- फणवडिशमुखे द्बे द्वे एषणव्यूहनचालनाह- रणार्थमुदिश्येते ॥”)



Correction: