वाचस्पत्यम्
शरभ || पु० शृ—अभच् । “अष्टपादूर्द्धनयन ऊर्द्ध्वपादचतुष्टयः” इत्युक्तलक्षणे १ मृगभेदे अमरः । २ करभे, ३ वानरभेदे अमरः । ३ उष्ट्रे च जटा० । ४ शिशुपालपुत्रभेदे भा० आश्व० ८३ अ० । ५ दानबभेदे मा० आ० ६५ अ० । “अष्टपादूर्द्धनयनः शरभो वनगोचरः । तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् । तं मुनिः शरभ- ञ्चक्रे वलोत्कटमरिन्दमम् । ततः स शरभो वन्यो मुनेः शरभमग्रतः । दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्व- नात् । स एवं शरभस्थाने संन्यस्तो मुनिना तदा । मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान् । ततः शरभस- न्त्रस्ताः सर्वे मृगगणास्तदा । दिशः सम्प्राद्रवन् राजन्! भयाज्जीवितकाङ्क्षिणः । शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः । फलमूलाशनं कर्त्तुं नैच्छत् स पिशिता- शनः । ततो रुधिरतर्षेण वलिना शरभोऽन्वितः । इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः । ततस्तेन तपः- शक्त्या विदिती ज्ञानचक्षुषा । विज्ञाय स महाप्राज्ञो मुनिःश्वानं तमुक्तवान् । श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः । व्याघ्रान्नागो मदपदुर्नागः सिंहत्वमा- गतः । सिंहस्त्वं वलमापन्नो भूयः शरभतां गतः । मया स्नेहपरीतेन विसृष्टो नकुलान्वयः । यस्मादेवम- पापं मां पाप! हिंसितुमिच्छसि । तस्मात् श्वयोनि- मापन्नः श्वैव त्वं हि भविष्यसि । ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः । ऋषिणा शरमः शप्तस्तद्रूपं पुन- राप्तवान्” भा० शा० ११७ अ० ।
शब्दकल्पद्रुमः
शर(ल)भः || पुं, (शृणाति हिनस्तीति । शॄ हिंसा- याम् + “कॄशॄशलिकलिगर्दिभ्योऽभच् ।” उणा० ३ । १२२ । इति अभच् ।)
मृगेन्द्रविशेषः । इत्यमरः ॥ तत्पर्य्यायः । महामृगः २ महा- स्कन्धी ३ महामनाः ४ अष्टपादः ५ महासिंहः ६ मनस्वी ७ पर्व्वताश्रयः ८ । इति राज- निर्घण्टः ॥ अस्य लक्षणं यथा, —
“अष्टपादूर्द्ध्वनयन ऊर्द्ध्वपादचतुष्टयः । तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥” इति महाभारतम् । १२ । ११७ । १२ ॥ करभः । (यथा, ऋतुसंहारे । १ । २३ । “भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन् शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥”)
वानरविशेषः । इति मेदिनी ॥ उष्ट्रः । इति जटाधरः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “अतुलः शरभो भीमः समयज्ञो हविहरिः ॥” दनुपुत्रविशेषः । यथा, तत्रैव्र । १ । ६५ । २६ । “शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा । एते ख्याता दनोर्व्वंशे दानव्राः परिकीर्त्तिताः ॥” नागविशेषः । यथा, तत्रैव । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहता- पनः ॥”)