संस्कृत-शब्दकोशः

शराली शरावती

शराव

वाचस्पत्यम्

शराव ||‍ पु० शरं दध्यादिसारमवति अव—अण् । १ मृण्मये पात्रभेदे, (शरा) अमरः । २ कुडवद्वयपरिमाणे च वैद्यकम् ।


शब्दकल्पद्रुमः

शरावः || पुं, क्ली, (शरं जलं अवति रक्षतीति ॥ अव रक्षणे + अण् ।)
मृत्पात्रविशेषः । शरा इति भाषा । तत्पर्य्यायः । वर्द्धमानकः २ । इत्यमरः ॥ मार्त्तिकः ३ सरावः ४ शाला- जिरम् ५ पार्थिवम् ६ मृत्कांस्यम् ७ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । १२६ । “उदितेऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥”)
कुडवद्बयपरिमाणम् । तत्तु चतुःषष्टितोल- कात्मकम् । सेर इति भाषा । तत्पर्य्यायः । मानिका २ । इति शब्दमाला वैद्यकपरि- भाषा च ॥



Correction: