वाचस्पत्यम्
शरासन || पु० शराः अस्यन्तेऽनेन अस—ल्युट् । १ धनुषि अमरः । शराणामासनम् । २ तूणे च ।
शब्दकल्पद्रुमः
शरासनं || क्ली (शरा अस्यन्ते क्षिप्यन्तेऽनेनेति । अस + करणे ल्युट् ।)
धनुः । इत्यमरः ॥ (यथा, रघुः । ३ । ५२ । “स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ॥” पुं, धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महा- भारते । १ । ११७ । ४ । “चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरा- सनः ॥”)