संस्कृत-शब्दकोशः

शरी शरीरक

शरीर

वाचस्पत्यम्

शरीर ||‍ न० शॄ—ईरन् । प्रतिक्षणं क्षीयमाणे १ देहे । तस्य अङ्गप्रत्यङ्गभेदा भावप्र० उक्ता यथा “गर्भाशयगबं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः स- विकारा च तत् सर्वं गर्भसंज्ञकम् । कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते” । अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य त्वङ्गान्यु पाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभि धीयन्वे शिष्याः! शृणुत यत्नतः । आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा । नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके । दृष्टिद्बयं कृष्णगोलौ श्वैतभागौ च वर्त्मनो । पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम् । पालिद्वयं कषोलो च नासिका च प्रकीर्त्तिता । ओष्ठा- धरौ च सृकिण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्त- वेष्टाश्च रसना चिवुकङ्गलः । द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा बिधार्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे । तत्रोपरिगतौ स्कन्घौ प्रगण्डौ भवतस्त्वधः । कफोनि- युम्भं तदधः प्रकोष्ठयुगलन्तथा । मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः । चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे । स्तनौ पुंसस्तथा मार्य्या विशेष उभयोरयम् । यौवना- गमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्थाः प्रसूता- यास्तविव क्षीरपूरितौ । हृदयं पुण्डरोकेण सदृशं स्या- दधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति । आशयस्तत्तु जीवस्य चेतनास्थामगुत्तमम् । अतस्तस्मिं- स्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि” । चेतनास्थान- मुत्तममित्यस्याभिप्रायः “केशलोमनखाग्रं च मलं, द्रव्यगुणैर्विना” इत्युक्तवता चरकेण प्तकलं शरोरं चेतनास्थानमुक्तम् तदपेक्षया हृदयं विशेषतश्चेतना- स्थानमिति “कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ । उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् । सपृष्ठवंशं तु तथा समस्तं सप्तमं स्मृतम् । उपाङ्गानि च कथ्यन्ते तानि जानोहि यत्नतः । शोणिताज्जायते प्लीहा बामतो हृदयादधः । रक्तवाहिसिराणां स मूलं ख्यातो मह र्षिभिः । हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः । अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तु- रञ्जजपित्तस्य स्थानं शोणितजं मतम् । अधस्तु दक्षिणे- भागे हृदयात् क्लोम तिष्ठति । जलवाहिसिरामूलं तृष्णाच्छादनकृन्मतम्” । क्लोम तिलकम् एतत्तु वातरक्त- जम् । अत्र वृद्ववाग्भटः “रक्तादनिलसंसक्तात्कालीय- कसमुद्भव” इति “मेदःशोणितयोः साराद्बुक्वयोर्यु- गलं भवेत् । तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः । उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः । अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत् । उन्दुकश्च कटी चाषि त्रिकं वस्तिश्च वङ्क्षणौ । कण्ड- राणां प्ररोहः स्थात् स्थानं तद् वीर्य्यमूत्रयोः । स एव गर्भस्याधानं कुर्य्याद्वर्भाशये स्त्रियाः । शङ्खनाभ्याकृति- र्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता । वृषणौ भवतः सारात्कफासृग्भ्यां च मेदसाम् । वीर्य्यवाहिसिराधारौ तौ मतौ पौरु- षावहौ । गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम् । तत्र स्युर्वस्तवस्तिस्रः शङ्खाबर्त्तनिभास्तु ताः । प्रवाहिणी भवेत् पूर्वा सार्द्धाङ्गुलमिता मता । उत्सर्जनी तु तदघः सा सार्द्धाङ्गुलसम्मिता । तस्याघः सञ्चरणी स्यादेकाङ्गु- लसमा मता । अर्द्धाङ्गुलप्रमाण तु बुधैर्गुदमुखं मतम् । मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः । पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः । तयोःककुन्दरे स्नातां सक्थिनी त्वङ्गमष्टमम् । तदुपाङ्गानि च ब्रूमो जानुनो पिण्डिकाद्वयम् । जङ्घे द्वे घुण्डिके पार्ष्णीतले च प्रपदे तथा । षादावङ्गुलथस्तत्र दश तासां नस्वा दश” ।


शब्दकल्पद्रुमः

शरीरं || क्ली (शॄ + “कॄशॄपॄकटिपटिशौटिभ्य ईरन् ।” उणा० ४ । ३० । इति ईरन् ।)
शीर्य्यते रोगादिना यत् । तत्पर्य्यायः । कले- वरम् २ गात्रम् ३ वपुः ४ संहननम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहः ९ मूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः ॥ क्षेत्रम् १३ पुरम् १४ घनः १५ अङ्गम् १६ पिण्डम् १७ । इति राज- निर्घण्टः ॥ भूतात्मा १८ स्वर्गलोकेशः १९ स्कन्धः २० पञ्जरः २१ कुलम् २२ बलम् २३ आत्मा २४ । इति जटाधरः ॥ स्कन्धम् २५ । इति शब्दरत्नावली ॥ इन्द्रियायतनम् २६ भूः २७ मूर्त्तिमत् २८ करणम् २९ वेरम् ३० सञ्चरः ३१ बन्धः ३२ पुद्गलम् ३३ । इति हेम- चन्द्रः ॥ * ॥
शरीरधर्म्मा यथा, —
“शरीरे भस्मसाद्भूते प्रतिविम्बः स चात्मनः । जीवस्तत्रान्तरीक्षस्य उवाच विनयं विभुम् ॥ जीव उवाच । सदुक्तिर्व्वा कदुक्तिर्व्वा कोपः सन्तोष एव च । लोभो मोहश्च कामश्च क्षुत्पिपासादिकञ्च यत् ॥ स्थौल्यं कार्श्यञ्च नाशश्च दृश्यादृश्यं समुद्भवम् । सर्व्वं शरीरधर्म्मश्च न जीवस्य न चात्मनः ॥ सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् । तच्च नानाप्रकारञ्च प्रबोध कथयामि ते ॥ किञ्चित् सत्त्वातिरिक्तञ्च किञ्चिदेव रजो- ऽधिकम् । तमोऽतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ॥ सत्त्वाद्दया च मुक्तीच्छा कर्म्मेच्छा च रजो- गुणात् । तमोगुणाज्जीवहिंसा कोपोऽहङ्कार एव च ॥ कोपात् कदुक्तिर्नियतं कदुक्त्या शत्रुता भवेत् । तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ॥ को वा प्रियोऽप्रियो वा कः किं मित्रं को रिपुर्भुवि । इन्द्रियाणि च जीवानि सर्व्वत्र शत्रुमित्रयोः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २४ अः ॥ * ॥
अथ स्त्रीपुंसयोः सर्व्वाङ्गानि पादाग्रादिशिरः- पर्य्यन्तानि । प्रपदम् १ अङ्घ्रिः २ गुल्फः ३ पार्ष्णिः ४ जङ्घा ५ जानु ६ ऊरुः ७ वङ्क्षणः ८ कटिः ९ त्रिकम् १० नितम्बः ११ स्फिक् १२ वस्तिः १३ उपस्थः १४ ककुन्दरम् १५ जघनम् १६ जठरम् १७ नाभिः १८ वलिः १९ स्तनः २० चूचकम् २१ क्रोडम् २२ रोम २३ कक्षः २४ अंसः २५ वक्षः २६ दोः २७ पार्श्वः २८ प्रगण्डः २९ कुर्परः ३० हस्तः ३१ प्रकोष्ठः ३२ मणिबन्धः ३३ अङ्गुलिः ३४ अङ्गुष्ठः ३५ करभः ३६ नखः ३७ पर्व्व ३८ चपेटकः ३९ कण्ठः ४० शिरोधिः ४१ श्मश्रु ४२ मुखम् ४३ ओष्ठः ४४ चिवुकम् ४५ हनुः ४६ सृक्कम् ४७ तालु ४८ रदः ४९ जिह्वा ५० नासा ५१ भ्रूः ५२ गण्डः ५३ लोचनम् ५४ अपाङ्गः ५५ तारा ५६ कर्णः ५७ भालः ५८ मस्तकम् ५९ केशः ६० । इति कविकल्पलता ॥ * ॥
परमेश्वरशरीरतो देवानामुत्पत्तिर्यथा, —
“सर्व्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः । विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ॥ अग्निस्तथाश्विनौ गौरी गजवक्त्रो भुजङ्गमः । कार्त्तिकेयस्तथादित्यो मातरो दुर्गया सह ॥ दिशो धनपतिर्विष्णुर्धर्म्मो रुद्रः शशी तथा । पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ॥ हिरण्यगर्भस्य तनौ सर्व्व एव समुद्भवाः । पृथक् पृथक् ततो गर्व्वं वहमानाः समन्ततः ॥ अहं योग्यस्त्वहं याज्य इति तेषां स्वनोमहान् । श्रूयते देवसमितौ क्षुब्धसागरसन्निभः ॥ तेषां विवदमानानां वह्निरुत्थाय पार्थिव । उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ॥ प्राजापत्यमिदं नूनं शरीरं मद्विना कृतम् । विनाशमुपपद्येत यतो नाहं महानहम् ॥ एवमुक्त्वा शरीरन्तु त्यक्त्वा वह्निर्व्विनिर्ययौ । निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्य्यते ॥ ततोऽश्विनौ मूर्त्तिमन्तौ प्राणापानशरीरगौ । आवां प्रधानावित्येवमूचतुर्याज्यवत्तरौ ॥ एवमुक्त्वा शरीरं तौ विहाय क्वचिदास्थितौ । तयोरपि क्षयं कृत्वा क्षीणं तत्पुरमास्थितः ॥ ततश्चैवाब्रवीद्गौरी प्राधान्यमपि संस्थितम् । साप्येवमुक्त्वा क्षेत्रात्तु निश्चक्राम बहिः शुभा ॥ तया विनापि तत् क्षेत्रं वागूनं व्यवतिष्ठते । ततो गणपतिर्व्वाक्यमाकाशाख्योऽब्रवीत्तदा ॥ न मया रहितं किञ्चिच्छरीरस्थोऽपि दूरतः । कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ॥ पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् । विना सांख्यञ्च तत्त्वेन तथापि न विशीर्य्यते ॥ शुषिरैस्तु विहीनन्तु दृष्ट्वा क्षेत्रं व्यवस्थितम् । शरीरधातवः सर्व्वे ते ब्रूयुर्व्वाक्यमेव हि ॥ अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् । भवतीत्येवमुक्त्वा ते जहुः सर्व्वे शरीरिणः ॥ तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते । तद्दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहङ्कारः प्रकी- र्त्तितः ॥ मया विना शरीरस्य सम्भू तिरपि नेष्यते । एवमुक्त्वा शरीरात्तु सोव्यपेतः पृथक् स्थितः ॥ तेनाक्षतेन तत् क्षेत्रं विना मुक्तवदास्थितम् । तद्दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्त्तितः ॥ मया विना कथं क्षेत्रमिमं क्षणमपीष्यते । एवमुक्त्वाथ यातः स तच्छरीरं न शीर्य्यते ॥ ततः कामादिरुत्थाय गणो मातृकसंज्ञितः । न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः ॥ एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्य्यते । ततो मायाब्रवीत् कोपात् सा च दुर्गा प्रकी- र्त्तिता ॥ न मयास्य विना भूतिरित्युक्त्वान्तर्दधे पुनः । ततो दिशः समुत्तस्थुरूचुश्चैव वचो महत् ॥ नास्माभी रहितं कायं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात्तदा ॥ ततो धनपतिर्व्वायुर्मध्ये तत्पक्तसम्भवः । शरीरस्येति सोऽप्येवमुक्त्वा मूर्द्धानगोऽभवत् ॥ ततो विष्णोर्मनो ब्रूयात् नायं देहो मया विना । क्षणमप्युत्सहे स्त्रातुमित्युक्त्वान्तर्दधे पुनः ॥ ततो धर्म्मोऽब्रवीत् सर्व्वमिदं पालितवाहनम् । इदानीं मय्युपगते कथमेतद्भविष्यति । एवमुक्त्वा गते धर्म्मे तच्छरीरं न शीर्य्यते ॥ ततोऽब्रवीन्महादेवश्चाव्यक्तो भूतनायकः । महत्संज्ञो मया हीनं शरीरं नो भवेद्यथा ॥ एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्य्यते । तद्दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ॥ प्राणान्तरेभिरेतश्च शरीरं शीर्य्यते ध्रुवम् । एवमुक्त्वा तु तं देहं त्यक्त्वान्तर्द्धानमागताः ॥ अग्निः प्राणः अपानश्च आकाशश्चैव धातवः । क्षेत्रं तद्बत्त्वहंकारो भानुः कामादयो मया ॥ काष्ठा वायुर्व्विष्णुधर्म्मौ शम्भुश्चैवेन्द्रियार्थकाः । एतैर्मुक्तन्तु तत् क्षेत्रं मुक्ताविव सुसंस्थितम् ॥ सोमेन पाल्यमानन्तु पुरुषेणेन्दुरूपिणा । एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ॥ प्राग्वत्तत्र गुणोपेतं क्षेत्रमुत्थाय यद्भवेत् । प्रागवस्थं शरीरन्तु दृष्ट्वा सर्व्वज्ञपालितम् ॥ ताः क्षेत्रदेवताः सर्व्वा वैलक्ष्यं भावमाश्रिताः तमेवं तुष्टुवुः सर्व्वास्तं देवं परमेश्वरम् ॥” इति वाराहे महातपोपाख्याननामाध्यायः ॥ * शरीरान्नं यथा, —
“शरीरमापः सोमश्च विविधं चान्नमुच्यते । प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥” इति गारुडे २१५ अध्यायः ॥ * ॥
मानसकायिकक्लेशसाध्यव्रतं यथा, — धरण्युवाच । “कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो । स्त्रीभिर्व्वा सर्व्वमेतन्मे शंस त्वं भूतभावन ॥ वाराह उवाच । भावसाध्यस्त्वहं देवि न वित्तैर्न जपैरहम् । साध्यस्तथापि भूतानां कायक्लेशं वदामि ते ॥ कर्म्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् । तस्य व्रतानि वक्ष्येऽहं विविधानि निबोध मे ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता । एतानि मानसान्याहुर्व्रतानि तु धराधरे ॥ एकभक्तं तथा नक्तमुपवासादिकञ्च यत् । तत् सर्व्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥” इति वाराहे सत्यतपोपाख्याननामाध्यायः ॥



Correction: