शब्दकल्पद्रुमः
शर्करार्व्वुदः || पुं, क्ली, (शर्क्करावदर्व्वुदः ।)
क्षुद्ररोग- विशेषः । तल्लक्षणं यथा, —
“प्राप्य मांसं शिराः स्नायुं मेदः श्लेष्मा तथानिलः । ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्व्वसानिभम् ॥ स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः । मांसं विशोष्य ग्रथितां शर्क्करां जनयत्यतः ॥ दुर्गन्धक्लिन्नमत्यर्थं नानावर्णं ततः शिराः । श्रवन्ति सहसा रक्तं तं विन्द्याच्छर्करार्व्वुदम् ॥” शर्करा बालुकातुल्या । तच्चिकित्सा यथा, —
“मेरोऽर्व्वुदविधानेन साधयेच्छर्करार्व्वुदम् ॥” इति भावप्रकाशः ॥