वाचस्पत्यम्
शर्करावत् || त्रि० शर्कराः सन्त्यस्मिन् मतुप् मस्य वः । बहु- शर्करायुक्तदेशे ।
शब्दकल्पद्रुमः
शर्करावान् || [त्] त्रि, (शर्क्करा विद्यतेऽस्मिन् । “देशे- लुबिलचौ च ।” ५ । २ । १०५ । इति मतुप् ।)
कर्परांशबहुलदेशः । तत्पर्य्यायः । शर्करा २ शर्करिलः ३ शार्करः ४ । इत्यमरः ॥