शब्दकल्पद्रुमः
शर्द्धः || पुं, (शृधु शब्दकुत्सायाञ्च + घञ् ।)
अपा- नोत्सर्गः । शृधधातोर्घञ्प्रत्ययेन निष्पन्नमेतत् ॥ (तेजः । यथा, ऋग्वेदे । ४ । १ । १२ । “प्र शर्द्ध आर्त्त प्रथमं विपन्या ॥” “शर्द्धस्तेजः ।” इति तद्भाष्ये सायणः ॥ समूहः । यथा, तत्रैव । १ । ६४ । १ । “वृष्णे शर्द्धाय सुमखाय वेधसे ।” “शर्द्धाय समूहाय ।” इति तद्भाष्ये सायणः ॥ प्रसहनशीले, त्रि । यथा, तत्रैव । १ । ३७ । ४ । “प्रवः शर्द्धाय घृष्वये त्वेष द्युम्नाय शुष्मिणे ।” “शर्द्धाय प्रसहनशीलाय ।” इति तद्भाष्ये सायणः ॥)