शब्दकल्पद्रुमः
शर्द्धंजहः || पुं, (शर्द्धं जहातीति । हा + “एजेः खश् ।” ३ । २ ॥ २८ । इत्यत्र । “वातशुनीति- लशर्द्धेष्विति ।” खश् । “अरुर्द्विषदजन्तस्यति ।” ६ । ३ । ६७ । इति मुम् ।)
माषः । यथा । शर्द्धं आर्द्रत्वं जहाति इति शर्द्धंजहो माषः । इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥