वाचस्पत्यम्
शर्मन् || शॄ—मनिन् । १ सुखे २ तद्वति त्रि० ३ ब्राह्मणोपाधौ पु० । “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभजः । भृतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” यमः । “शर्मान्तं ब्राह्म- णस्य स्थात् वर्मान्तं क्षत्त्रियस्य तु । धनान्तञ्चैव वैश्यस्य दासान्तं चान्त्यजन्मनः” शातातपः ।
शब्दकल्पद्रुमः
शर्म्म || [न्] क्ली, (शॄ + “सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ।)
सुखम् । इत्यमरः ॥ (यथा, ऋग्वेदे । ४ । २५ । ४ । “तस्मा अग्निर्भारतः शर्म्म यं सत् ।” “शर्म्म सुखम् ।” इति तद्भाष्ये सायणः ॥ यथाच कथासरित्सागरे । ७८ । ४९ । “स्वामिभक्तस्तदेतस्य शर्म्मोपायमिमं शृणु ॥”)
तद्वति, त्रि ॥ गृहम् । इति निघण्टुः । ३ । ४ ॥ यथाच ऋग्वेदे । ३ । १३ । ४ । “स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।” “शर्म्माणि शर्म्मशब्दो गृहवाची छाया शर्म्मेति तन्नामसु पाठात् ।” इति तद्भाष्ये सायणः ॥)