संस्कृत-शब्दकोशः

शर्शरीक शलक

शल

वाचस्पत्यम्

शल ||‍ गतौ भ्वा० पर० सक० सेट् । शलति अशालीत् । ज्वलादि० शलः शालः ।


वाचस्पत्यम्

शल ||‍ चालने भ्वा० आत्म० सक० सेट् । शलते अशलिष्ट । अशलिढ्व(ध्व)म् शेले


वाचस्पत्यम्

शल ||‍ न० शल—अच् । १ शल्लकीलोम्नि (सजारुकाँटा) अमरः २ शृङ्गिणि ३ क्षेत्रभेदे ४ ब्रह्मणि च पु० मेदि० ५ कुन्तास्त्रे त्रिका० ६ उष्ट्रे पुंस्त्री० हेमच० स्त्रियां ङीष् ।


वाचस्पत्यम्

शल ||‍ वेगे भ्वा० पर० सक० सेट् । शलति अशालीत् ।


वाचस्पत्यम्

शल ||‍ श्लाघायां चु० आत्म० सक० सेट् । शालयते अशीशलत ।


शब्दकल्पद्रुमः

शल || क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
क ङ, शालयते पण्डितं धीरः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शलं || क्ली (शल + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।)
शल्लकीलोम । सजारु- कांटा इति भाषा । तत्पर्य्यायः । शलली २ शललम् ३ । इत्यमरः ॥


शब्दकल्पद्रुमः

शल || ङ चलने । स्तृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् ।)
ङ, शलते । चलनं कम्पः । स्तृतिरिह संवरणम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शल || ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ज, शालः शलः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शलः || पुं, शललम् । भृङ्गी । क्षेत्रभेदः । ब्रह्मा । इति मेदिनीशब्दरत्नावल्यौ ॥ कुन्तास्त्रम् । इति त्रिकाण्डशेषः ॥ उष्ट्रः । इति हेमचन्द्रः ॥ (वासुकिवंशीयसर्पविशेषः । यथा, महाभारते । १ । ५७ । ५ । “कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥” शन्तनुराजपुत्त्रः । यथा, भागवते । ९ । २२ । १८ । “शलश्च शन्तनोरासीत् गङ्गायां भीष्म आत्म- वान् ।” शल्यराजः । यथा, भागवते । १ । १५ । १६ । “नप्तृत्रिगर्त्तशलसैन्धववाह्लिकाद्यैः ॥” कंसामात्यः । यथा, तत्रैव । १० । ३६ । २१ । “ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥”)


शब्दकल्पद्रुमः

शल || वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
शलति । इति दुर्गादासः ॥



Correction: