संस्कृत-शब्दकोशः

शलङ्ग शलल

शलभ

वाचस्पत्यम्

शलभ ||‍ पु० शल—अभच् । कीटभेदे षतङ्गे अमरः ।


शब्दकल्पद्रुमः

शलभः is an alternate of शरभः. शर(ल)भः || पुं, (शृणाति हिनस्तीति । शॄ हिंसा- याम् + “कॄशॄशलिकलिगर्दिभ्योऽभच् ।” उणा० ३ । १२२ । इति अभच् ।)
मृगेन्द्रविशेषः । इत्यमरः ॥ तत्पर्य्यायः । महामृगः २ महा- स्कन्धी ३ महामनाः ४ अष्टपादः ५ महासिंहः ६ मनस्वी ७ पर्व्वताश्रयः ८ । इति राज- निर्घण्टः ॥ अस्य लक्षणं यथा, —
“अष्टपादूर्द्ध्वनयन ऊर्द्ध्वपादचतुष्टयः । तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥” इति महाभारतम् । १२ । ११७ । १२ ॥ करभः । (यथा, ऋतुसंहारे । १ । २३ । “भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन् शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥”)
वानरविशेषः । इति मेदिनी ॥ उष्ट्रः । इति जटाधरः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “अतुलः शरभो भीमः समयज्ञो हविहरिः ॥” दनुपुत्रविशेषः । यथा, तत्रैव्र । १ । ६५ । २६ । “शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा । एते ख्याता दनोर्व्वंशे दानव्राः परिकीर्त्तिताः ॥” नागविशेषः । यथा, तत्रैव । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहता- पनः ॥”)


शब्दकल्पद्रुमः

शलभः || पुं, (शल + “कृशॄ शलिकलिगर्द्दिभ्यो- ऽभच् ।” उणा० ३ । १२२ । इति अभच् ।)
कीटविशेषः । फडिं इति पङ्गपाल इति च भाषा । तत्पर्य्यायः । पतङ्गः २ । इत्यमरः ॥ पत्राङ्गः ३ पत्राङ्कः ४ । इति शब्दरत्नावली ॥ स तु ईतिविशेषः । यथा, —
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥” इति ज्योतिस्तत्त्वम् ॥ (असुरविशेषः । यथा, हरिवंशे । ३ । ८८ । “शरभः शलभश्चैव विप्रचित्तिश्च वीर्य्यवान् ॥”)



Correction: