शब्दकल्पद्रुमः
शल्लकं || क्ली (शल्लमेव । स्वार्थे कन् ।)
त्वक् । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
शल्लकः || पुं, शोणवृक्षः । इति जटाधरः ॥ (शल्लकीजन्तुः । यथा, याज्ञवल्क्ये । १ । १७७ । “भक्ष्याः पञ्चनखाः सेधा गोधाकच्छपशल्लकाः । शशाश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥”)