संस्कृत-शब्दकोशः

शश शशधर

शशक

वाचस्पत्यम्

शशक ||‍ पुंस्त्री० शश—स्वार्थे क । (स्वरगोश) पञ्चनस्येषु भक्ष्ये पशुभेदे “शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनुः ।


शब्दकल्पद्रुमः

शशकः || पुं, (शश + स्वार्थे कन् ।)
शशः । यथा, “शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः । भक्ष्याः पञ्चनखेष्वेते न भक्ष्याश्चान्यजातयः ॥” इति स्मृतिः ॥



Correction: