शशस्थली
शशाण्डुलि
शशाङ्क
शब्दकल्पद्रुमः
शशाङ्कः || पुं, (शशोऽङ्क श्चिह्नं अङ्के क्रोडे वा यस्य ।)
चन्द्रः । इति हलायुधः ॥ (यथा, कथासरित्- सागरे । १८ । ३९५ ॥ “स जनैर्द्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्कैव पूर्व्वाद्रेरुदयस्थो विदूषकः ॥”)
कर्पूरः । इति राजनिर्घण्टः ॥