वाचस्पत्यम्
शशाण्डुलि || स्त्री अडि—उलि ६ त० वा ङीप् । कर्कटीभेदे रा० जनि० । “शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता मधुरा कफापहा । पाके तु साऽम्ना मधुरा विदाहकृत् कफे तु शुष्का रुचिकृच्च दीपनी” राजनि० ।
शब्दकल्पद्रुमः
शशाण्डुलिः || स्त्री कर्कटीभेदः । तत्पर्य्यायः । बहु- फला २ तण्डुली ३ क्षेत्रसम्भवा ४ क्षुद्राम्ला ५ लोमशफला ६ धूम्रा ७ वृत्तफला ८ । अस्या गुणाः । “शशाण्डुलि स्तिक्तकटुश्च कोमला कट्वम्लयुक्ता मधुरा कफापहा । पाके तु साम्ला मधुरा विदाहकृत् कफे तु शुष्का रुचिकृच्च दीपनी ॥” इति राजनिर्घण्टः ॥