शब्दकल्पद्रुमः
शशिध्वजः || पुं, (शशी ध्वजे यस्य ।)
भल्लाटपुर- राजः । यथा, —
“ततः शशिध्वजो राजा युद्धादाहूय पुत्त्रकान् । सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् स कल्कये ॥ विशाखयूपभूपाश्च रुचिराश्वश्च संयुगम् । शय्याकर्णनृपेणापि भल्लाटं पुरमाययुः ॥” इति कल्किपुराणे २५ अध्यायः ॥