वाचस्पत्यम्
शशिन् || पु० शशोऽस्त्यस्य इनि । १ चन्द्रे २ कर्पूरे च शब्दमा० ।
शब्दकल्पद्रुमः
शशी || [न्] पुं, (शशोऽस्यास्तीति । शश + इनिः ।)
चन्द्रः । यथा, — ‘हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः ॥’ भरतधृतशब्दार्णवः ॥ (यथा च हितोपदेशे । “शशिनस्तुल्यवंशोऽपि निर्द्धनः परिभूयते ॥”)
अर्हद्ध्वजाविशेषः । इति हेमचन्द्रः ॥