संस्कृत-शब्दकोशः

शष्कुल शष्प

शष्कुली

शब्दकल्पद्रुमः

शष्कुली || स्त्री (शष्कुल + गौरादित्वात् ङीष् ।)
तिलतण्डुलमाषमिश्रितयवागुः । इति शब्द- चन्द्रिका ॥ कर्णरन्ध्रम् । इति शब्दरत्नावली ॥ मत्स्यभेदः । सौरी । इति हिन्दी भाषा । अस्या गुणाः । “शष्कुली ग्राहिणी हृद्या मधुरा तुवरा स्मृता ।” इति भावप्रकाशः ॥ (पिष्टकविशेषः । यथा, महाभारते । १२ । २२८ । ६२ । “पायसं कृसरं मांसमपूपानथ शष्कुलीः ॥”)



Correction: