संस्कृत-शब्दकोशः

शंसा शस्कुली

शंसित

वाचस्पत्यम्

शंसित ||‍ त्रि० शन्स—क्त । १ निश्चिते हला० । २ हिसिते । ३ कथिते ४ स्तुते च ।


शब्दकल्पद्रुमः

शंसितः || त्रि (शंस + क्तः ।)
निश्चितः । इति हलायुधः ॥ हिंसितः । स्तुतः । इति शन्स- धातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥ (यथा, महाभारते । १ । ११९ । २५ । “ब्राह्मणाश्च महात्मानः सोमपाः शंसित- व्रताः ॥”)



Correction: