संस्कृत-शब्दकोशः

शस्तकेशक शस्त्र

शंस्तृ

शब्दकल्पद्रुमः

शंस्ता || [ऋ] पुं, (शंस + “तृन्तृचौ शंसि- क्षदादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । यद्वा, छन्दसि “ग्रसितस्क- भितस्तभितेति ।” ७ । २ । ३४ । इति निपातनात् साधुः ।)
स्तोता । होता । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रशास्ता । यथा, ऋग्वेदे । १ । १६२ । ५ । “होताध्वर्य्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ॥” “शंस्ता प्रशास्ता ।” इति तद्भाष्ये सायणः ॥)



Correction: