संस्कृत-शब्दकोशः

शंस्तृ शस्त्रक

शस्त्र

वाचस्पत्यम्

शस्त्र ||‍ न० शस—ष्ट्रन् । १ लौहे २ खङ्गादौ अस्त्रै च हेमच० स्वार्थे क । तत्रैव । तत्र मुक्तमस्त्रममुक्तं शस्त्रमिति भेदः शंस—तन् । ३ प्रगीते मन्त्रभेदे चिकित्साङ्गशस्त्राणां श्च- क्षणादि सुश्रुतोक्तं यथा “अथातःशस्त्रावचारणीयमध्यायं व्याख्यास्यामः विंशतिः शस्त्राणि । तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्र- मुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखशरारीमुखा- न्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रक्वडिश- दन्तशङ्क्केषण्य इति । तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च । वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्र- कार्द्धधाराणि छेदने भेदने च । सूचीकुशपत्राटीमुख- शरारीमुखान्तर्मुखत्रिकूचेकानि विस्नावणे । कुठारीका- व्रीहिमुखारावेतसपत्रकाणि घ्यधने सूची च । वडिशो दन्तशङ्कुश्चाहरणे । एषण्येषणे आनुलोभ्ये च । सूच्यः सेवने इत्यष्टविधे कर्मण्युपयोगः शस्त्रार्णा व्याख्यातः । तेषामथ यथायोगग्रहणसमासोपायः कर्मसु वक्ष्यते । तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्भेदनान्येवं सर्वाणि । वृद्धिपत्रं मण्डलाग्रञ्च किञ्चिदुत्तानपाणिना लेखने बहुशोऽवत्तार्व्यं वृन्ताग्रे विस्रावणानि विशेषेण बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत् । तल- प्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखम् । कुठारीकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुष्ठविष्टब्धयाभिहन्यात् । आराकरपत्रैषण्यो मूले । शेषाणिं तु यथायोगं गृह्णीयात् । तेषां नामभिरेवाकृतयः प्रायेण व्या- ख्याताः । तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते । वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवसन्त- मुखे । एषणी गण्डूपदाकारमुखी । प्रदेशिन्यग्रपर्वप्रदेश- प्रमाणा मुद्रिका । दशाङ्गुला शरारीमुखी सा कर्त्तरीति कथ्यते । शेषाणि तु षडङ्गलानि । तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखा- ग्राण्यकरालानि चेति शस्त्रसम्पत् । तत्र वक्रं कुण्ठं खण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमि- त्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि ञ्चरधारमस्थिच्छेदनार्थम् । तत्र घारा भेदनानां मासूरी । लेखनानामर्द्धमासूरी । व्यधनानां विस्नावणानाञ्च कैशिकी । छेदनानामर्द्धकैशिकीति । तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु । उदकपायितं मांसच्छेदनभेदन- पाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु । तेषां निशाणार्थं श्लक्ष्णशिला माषवर्ण्णा । धारासंस्यापनार्थं शालमलोफलकमिति” । भवति चात्र “यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् । सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत्” । अनुशस्त्राणि तु त्वक्सारस्फ- टिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिका- शाकपत्रकरीरबालाङ्गुलय इति । “शिशृनां शस्त्रभी- रूणां शस्त्राभावे च योजयेत् । त्वक्सारादि चतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् । आहार्य्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् । विधिः प्रवक्ष्यते पश्चात् क्षारवह्नि- जलौकसाम् । ये स्युर्मुखगता रोगानेत्रवर्त्मगताश्च ये । गोजीशेफालिकाशाकपत्रैर्विस्वावयेत्तु तान् । एष्येष्वे- षण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः । शस्त्राण्येतानि मतिमान् शुद्धशेक्यायसानि तु । कारयेत्करणैः प्राप्तं कर्मारं कर्मकोविदम् । प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः । तस्मात्परिचयः कार्य्यः शस्त्राणामादितः सदा” ।


शब्दकल्पद्रुमः

शस्त्रं || क्ली (शस्यते हिंस्यते अनेन । “अमिचि- मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।)
लोहम् । अस्त्रम् । इत्यमरः ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रा- स्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यते तत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यते तदस्त्रं काण्डादि । इति तट्टीकायां भरतः ॥ तत्पर्य्यायः । “अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधः ।” इति शब्दरत्नावली ॥ “एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्रधा । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥” इति विष्णुपुराणे ५ अंशे ३० अध्यायः ॥ अस्त्रं मन्त्राभिमन्त्रितम् । शस्त्रं तदितरत् । इति तट्टीका ॥ * ॥
राज्ञां अस्त्राचार्य्यो यथा, —
“यन्त्रयुक्ते पाणियुक्ते अयुक्ते युक्तधारिते । अस्त्राचार्य्यो निरुद्बेगः कुशलश्च विशिष्यते ॥” तदगारनियुक्तस्य लक्षणं यथा, —
“स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता । राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ॥” इति मात्स्ये १८९ अध्यायः ॥ अस्त्रचिकित्सा यथा । अथातोऽग्रोपहरणीय- मध्यायं व्याख्यास्यामः । त्रिविधं कर्म्म । पूर्ब्ब- कर्म्म प्रधानकर्म्म पश्चात्कर्म्मेति । तद्व्याधि प्रत्युपदेक्ष्यामः । अस्मिन् शास्त्रे शस्त्र कर्म्म प्राधान्यात् शस्त्रकर्म्मैव तावत् पूर्ब्बमुपदेक्ष्याम- स्तत्सम्भारांश्च । तच्च शस्त्रकर्म्माष्टविधम् । तद्यथा । छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्य्यं विश्राव्यं सीव्यमिति ॥ * ॥
अतोऽन्यतमं कर्म्म चिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानि । तद्यथा । यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गतुम्ब- जलौकालावूजाम्बवोष्ठपिचुप्लोत-सूत्रपत्रपट्टमधु- घृतवसापयस्तैलतर्पणकाषायालेपनकल्कव्यजन- शीतोष्णोदककटाहादीनि परिकर्म्मिणश्च स्निग्धाः स्थिरा वलवन्तः । ततः प्रशस्तेषु तिथि- करणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्च्चयित्वा कृतवलिमङ्गलस्वस्ति- वाचनं लघु भुक्तवन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्म्मशिरास्नायु- सन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निद- ध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च । महत्स्वपि च पाकेषु द्ब्यङ्गुलं त्र्यङ्गुलं बा शस्त्र- पदमुक्तम् । तत्रायतो विशालः समः सुविभक्त इति ब्रणगुणाः । भवतश्चात्र । “आयतश्च विशालश्च सुविभक्तो निराश्रयः । प्राप्तकालकृतश्चापि व्रणः कर्म्मणि शस्यते ॥ शौर्य्यमाशु क्रिया शस्त्रतैक्ष्ण्यकस्वेदवेपथू । असंमोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते ॥” एकेन वा व्रणेनाशुष्यमाणेनान्तराबुद्ध्यावेक्ष्य अपरान् व्रणान् कुर्य्यात् । भवन्ति चात्र । “यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च । तत्र तत्र व्रणं कुर्य्याद्यथा दोषो न तिष्ठति ॥” तत्र भ्रूगण्डशङ्खललाटाक्षिपुटोष्ठदन्तवेष्टकक्षा- कुक्षिवङ्क्षणेषु तिर्य्यक्छेद उक्तः ॥ “चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् । अर्द्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान् ॥” अन्यथा तु शिरास्नायुच्छेदनादतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दी प्रादुर्भावश्चेति । मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्त- वतः कर्म्म कूर्व्वीत । ततः शस्त्रमवतार्य्य शीता- भिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्या- ङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोते- नोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषध- युक्तां वर्त्तिं प्रणिदध्यात् । ततः कल्केनाच्छाद्य नातिस्निग्धां नातिरूक्षां नातिघनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयाद्वेदनारक्षोघ्नैर्धूपैर्धूपये- द्रक्षाघ्नैश्च मन्त्रै रक्षां कुर्व्वीत । ततो गुग्गुल्व- गुरुसर्ज्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्या मिश्रैराज्ययुक्तैधूपैर्धूपयेत् । आज्यशेषेण चास्य प्राणान् समालभेत । उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म्म कुर्य्यात्तद्वक्ष्यामः ॥ * ॥
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च । रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥ नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः । अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥ पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः । दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः । पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥ अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ॥ सोमो व्यानमपानं ते पर्य्यण्यः परिरक्षतु ॥ उदानं विद्युतः पान्तु समान स्तनयित्नवः । बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु । प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा । आकाशं स्वानि ते पातु देहं तव वसुन्धरा ॥ वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ एता देहे विशेषेण तव नित्या हि देवताः । एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्व्व- ताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः । पितामहकृता रक्षा स्वस्त्यायुर्व्वर्द्धतां तव । ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥” इति स्वाहा ॥ “एतैर्व्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः । मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥” * ॥
ततः कृतरक्षमातुरमागारं प्रवेश्याचारिक- मादिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बध्नी- याद्बस्त्रपट्टेन । न चैनं त्वरमाणोऽपरेद्युर्मोक्ष- येत् । द्बितीयदिवसे परिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति । अत ऊर्द्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धा- हाराचारान् विदध्यात् । न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्य- न्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति । भवन्ति चात्र । “तस्मादन्तर्व्वहिश्चैव सुशुद्धं रोपयेद्व्रणम् । रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥ हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात् । मासान् षट् सप्त वा नॄणां विधिरेषः प्रशस्यते ॥ हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् । त्र्यहात् द्ब्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धि- मान् ॥ अतिपातेषु रोगेषु नेच्छेद्विधिमिमं भिषक् । प्रदीप्तागारवच्छिघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः । घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥” इति सुश्रुते ५ अध्यायः ॥


शब्दकल्पद्रुमः

शस्त्रः || पुं, (शसत्यनेनेति । शस वधे + “असिचि- मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्वा, दाम्नीशसयुयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।)
खड्गः । यथा, —
“रिष्टिः खड्गस्तरवारिः शस्त्रो भद्रात्मजश्च सः ॥” इति त्रिकाण्डशेषः ॥



Correction: