वाचस्पत्यम्
शस्यध्वंसिन् || पु० शस्यं ध्वंसयति ध्वन्स—णिच्—णिनि । १ तुन्नवृक्षे (तुँद) शब्दच० २ शस्यनाशके त्रि० ।
शब्दकल्पद्रुमः
शस्यध्वंसी || [न्] पुं, (शस्यानि ध्वंसयतीति । ध्वंस + णिनिः ।) तुन्नवृक्षः । इति शब्दचन्द्रिका ॥ शस्यनाशके, त्रि ॥