संस्कृत-शब्दकोशः

शाकबिल्व शाकम्भरीय

शाकम्भरी

वाचस्पत्यम्

शाकम्भरी ||‍ स्त्री शाकैर्विभर्त्ति भृ—स्वच् मुम् च । “भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः । शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि” देवीमा० निरुक्ता- याम् १ दुर्गायाम् । २ रोमकान्तर्गतशाकम्भरनगर्य्यां न० तत्र भवं छ । शाकम्भरीय लवणभेदे न० “शाकम्भरीयं कथितं गडाख्यं रोमकं तथा! गडाख्यं लघु वातघ्नमत्युष्णं भेदि पित्तलम् । तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि च” भावप्र० ।


शब्दकल्पद्रुमः

शाकम्भरी || स्त्री (शाकेन बिभर्त्ति । भृ + खश् । ङीष् ।)
दुर्गा । यथा, —
“ततोऽहमखिलं लोकमात्मदेहसमुद्भवेः । भरिष्यामि सुराः शाकैरावृष्टैः प्राणधारकैः ॥ शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥” इति मार्कण्डेयपुराणे नारायणीस्तुतिः ॥ अपि च । “भूयः सुरास्तिष्ययुगे निराशना- न्निरीक्ष्य मारीचगृहे समाश्रिता । लोकान् भरिष्यामि तनूजशाकै- स्तदा भविष्यामि शाकम्भरीति ॥” इति वामने ५३ अध्यायः ॥ नगरविशेषः । शाम्भरीति ख्यातः । इति केचित् ॥



Correction: