संस्कृत-शब्दकोशः

शाकाष्टका शाकुण

शाकिनी

वाचस्पत्यम्

शाकिनी ||‍ स्त्री शाकमस्त्यस्याः उत्पद्यत्वेन इनि । १ शाकभव- नयोग्यायां मूमौ गृहवाटिकायाम् २ देवीसहचरीभेदे च । “डाकिनी योगिनी चैव खेचरी शाकिनी तथा । दिक्षु पूज्या इमा देव्यः सुसिद्धिफलदायिकाः” कात्या० कल्प० । कण्ठदेशस्थे विशुद्धाख्ये चक्रे स्थितायां ३ देवीशक्तौ च “विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुते । सदाशिवं शाकिनीञ्च विन्यसेत् पूर्ववत्ततः” तन्त्रसा० ।


शब्दकल्पद्रुमः

शाकिनी || स्त्री (शाकोऽस्त्यत्रेति । शाक + इनिः ।)
शाकयुक्ता भूमिः । यथा, —
“शकटः शाकिनी गावो जालमस्पन्दनं वनम् । अनूपं पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” शकटा धान्यादिवहनद्बारेणोपजीव्यः । “पत्रं पुष्पं फलं कन्दं नालं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” इति वैद्योक्तशाकयोगात् शाकिनीगृहवाटिका- शाकाद्याहरणेन । गावो दुग्धादिना । जालं मत्स्याद्याहरणेन । अस्पन्दनं स्वस्थानादत्यागः ऋणादिलाभेन । व्ययाधिक्यनिवृत्त्या च । वनं फलपुष्पाद्याहरणेन । अनूपं बहूदकदेशः समृणालशालूकाद्याहरणेन । पर्व्वतो गैरिक- मृदाद्याहरणेन । राजा भैक्षादिना । इत्या- ह्रिकतत्त्वम् ॥ * ॥
दुर्गाया अनुचरीविशेषः । यथा, —
“डाकिनी योगिनी चैवखेचरी शाकिनी तथा । दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः ॥” इति कात्यायनीकल्पः ॥ “ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट्शिवाः परिकीर्त्तिताः ॥ मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ॥ सर्व्वत्रं त्र्यक्षरीमुक्त्वा वादिसान्तं सबिन्दुकम् ॥ स्वाधिष्ठानाख्यचक्रे तु सविष्णुं राकिणीं तथा । वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥ डादिफान्तार्णसहितं रुद्रञ्च लाकिनीं तथा । अनाहते कादिठान्तं ईश्वरं काकिनीं तथा ॥ विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुतम् । सदाशिवं शाकिनीन्तु विन्यसेत् पूर्व्ववत्ततः ॥ आज्ञाचक्रे तु देवेशि ह-क्ष-वर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥” इति तारान्यासभेदः । इति तन्त्रसारः ॥



Correction: