संस्कृत-शब्दकोशः

शाक्कर शाक्तीक

शाक्त

वाचस्पत्यम्

शाक्त ||‍ त्रि० शक्तिर्दवताऽस्य अण् । तन्त्रोक्ते शक्तिदेवतोपासके तस्य प्रशंसा मुण्डमालात० २ पटले उक्ता “स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परः प्रियः । सौराणां गाण- पत्यानां वैष्णवानां तथैव च । शैवान्ते चैव शाक्तश्च क्रमशः क्रमशः प्रिये!” “शाक्ता एव द्विजाः मर्वे न शैवा न च वैष्णवाः । उपासते यतो देवीं गायत्रीं पर- माक्षराम्” निर्वाणत० २ पटले । “अस्याश्चाराधनं कृत्वा नान्यस्याराधनं चरेत् । अन्यस्य स्मरणाद्देवि! योगिनी शापमालभेत्” गन्घर्वत० । “तर्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया । एष एव कुशः शाक्तो न दर्भो वन- सम्भवः” श्यामार० ।


शब्दकल्पद्रुमः

शाक्तः || त्रि शक्तिर्देवता अस्य । (शक्ति + “सास्य देवता ।” ४ । २ । २४ । इत्यण् ।)
शक्त्युपासकः । अस्य प्रशंसा यथा, —
“स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परः प्रियः । सौराणां गाणपत्यानां वैष्णवानां तथैव च ॥ तदन्ते चैव शाक्ताः स्युः क्रमशः क्रमशः प्रिये । शृणु देवि वरारोहे नास्ति शाक्तात् परो जनः ॥ शाक्तोऽपि शङ्करः साक्षात् परं ब्रह्मस्वरूप- भाक् । आराधिता येन काली तारा त्रिभुवनेश्वरी ॥ षोडशी चैव मातङ्गी छिन्ना च गलवामुखी । आराधिता महेशानि स शिवो नात्र संशयः ॥ अतिगोप्यं महेशानि शाक्तानां परमं पदम् । यो जानाति महीमध्ये स शिवो नात्र संशयः ॥ ब्रह्माद्यर्च्चितपादाब्जं यो भजेत् सततं मुदा । स यात्यचिरकालेन मुक्तिमन्दिरमेव हि । पार्व्वतीचरणद्वन्द्वभजनाकिङ्करो भवेत् । स्वर्गभोगश्च मोक्षश्च शाक्तानां न भवेत् किमु ॥ शाक्तानाञ्चैव निन्दां ये कुर्व्वन्ति हि नराधमाः । तेषां लोहितपानं वै कुर्व्वन्ति भैरवीगणाः ॥ भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान् । शाक्तान् हिंसन्ति गर्जन्ति निन्दन्ति बहु- जल्पकाः ॥ छिनत्ति तेषां देवेशि शिरांसि हरवल्लभा । शाक्तेभ्य उत्तमो नास्ति स्वर्गे मर्त्ये रसातले ॥ शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः । स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले ॥” देवीं प्रति शिववाक्यम् । “मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः । त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि । बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः । शाक्ता वै शङ्करा देवि यस्य कस्य कुलोद्भवाः ॥ चाण्डाला ब्राह्मणाः शूद्राः क्षत्त्रिया वैश्य- सम्भवाः । एते शाक्ता जगद्धात्रि न मनुष्याः कदाचन ॥ पश्यन्ति मानुषान् लोके केवलं कर्म्मचक्षुषा । ब्राह्मणैः क्षत्त्रियैर्व्वैश्यैः शूद्रैरेव च जातिभिः ॥ वाममार्गप्रभावेण कर्त्तव्यं जपपूजनम् । ये शाक्ता ब्राह्मणा देवि क्षत्त्रिया ब्राह्मणाः स्मृताः ॥ वैश्याश्च ब्राह्मणा देवि सर्व्वे शूद्राश्च ब्राह्मणाः । ब्राह्मणाः शङ्कराश्चण्डि त्रिनेत्राश्चन्द्रशेखराः ॥” इति मुण्डमालातन्त्रे २ । ३ । ४ । ७ पटलाः ॥ * ॥
“शाक्ता एव द्बिजाः सर्व्वे न शैवा न च वैष्णवाः । उपासन्ते यतो देवीं गायत्त्रीं परमाक्षरीम् ॥” इति निर्व्वाणतन्त्रे ३ पटलः ॥ शक्त्युपासनानन्तरमन्योपासननिषेधो यथा, —
“अस्याश्चाराधनं कृत्वा नान्यस्याराधनं चरेत् । अन्यस्य स्मरणाद्देवि योगिनीशापमालभेत् ॥” इति गन्धर्व्वतन्त्रे २ पटलः ॥ * ॥
तस्य आभ्यन्तरस्नानं यथा, —
“शाक्तमाभ्यन्तरस्नानमुक्तं श्रीपञ्चमीमते । स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः ॥ आन्तरं आनमत्यन्तं रहस्यमपि सादरात् । कथयामि भयध्वस्त्यै चतुर्व्वर्गफलाप्तये ॥ सम्बित्त्रयमनुसृत्य चरणत्रयमध्यतः । स्रवस्कं सच्चिदानन्दप्रभावं भावगोचरम् ॥ विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् । तेन प्लावितमात्मानं भावयेत् भयशान्तये ॥” इति विश्वसारतन्त्रे २ पटलः ॥ * ॥
तस्य कुशविशेषो यथा, —
“तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया । एष एव कुशः शाक्ते न दर्भो वनसम्भवः ॥” इति श्यामारहस्यम् ॥ (शक्तिमान् । यथा, ऋग्वेदे । ७ । १०३ । ५ । “वाचं शाक्तस्येव वदति शिक्षमाणः ॥” “शिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येव शक्तिमतः शिक्षकस्य वाचं यथा अनुवदति तद्वत् ।” इति तद्भाष्ये सायणः ॥)



Correction: