संस्कृत-शब्दकोशः

शाक्त्य शाक्यमुनि

शाक्य

वाचस्पत्यम्

शाक्य ||‍ पु० शक—थञ् तत्र साधुः यत् । बुद्धे । शाक्यशब्दनिरुक्तिरन्यथोक्ता यथा ||‍“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे । तस्मादि- क्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः” भरतधृतवच- नम् । इयमत्राख्यायिका पितृशप्ताः केचिदिक्ष्वाकुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवासाः शाक्या इति ख्यातिमापन्नाः ।


शब्दकल्पद्रुमः

शाक्यः || पुं, (शकोऽभिधानमस्येति । शक + “शण्डिकादिभ्यो ञ्यः ।” ४ । ३ । ९२ । इति ञ्यः ।)
बुद्धः । इति हलायुधः ॥



Correction: