संस्कृत-शब्दकोशः

शाटी शाठ्य

शाट्यायन

वाचस्पत्यम्

शाट्यायन ||‍ पु० १ मुनिभेदे, तेन प्रोक्तम् अण् । २ प्रकृतहोम- कर्मणि वैगुण्यसमाधनार्थं विहिते होमभेदे न० भवदवः ।


शब्दकल्पद्रुमः

शाट्यायनं || क्ली प्रकृतकर्म्मवैगुण्यप्रशमनाथहोमः । यथा । यत्तु प्रकृतकर्म्मवैगुण्यप्रशमनाय शाट्या- यनहोमाभिधानं भवदेवभट्टसम्मतं तन्न प्रामा- णिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायण- चरणैर्गोभिलभाष्ये तदप्रमाणीकृतत्वात् । छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थं प्रकारत्रय- मात्रमुक्तम् । यथा, —
“यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे यथा ॥ अपि वाज्ञातमित्येषा प्राजापत्यापि बाहुतिः । होतव्या त्रिर्व्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥” त्रिर्व्विकल्प इत्यनेन कल्पान्तरनिषेधात् गोभि- लीयकर्म्मणि शाट्यायनहोमो न युक्तः । किन्तु व्यस्तसमस्तमहाव्याहृतिभिश्चतसृभिः प्राय- श्चित्तहोमो युक्तः । विशारदप्रभृतयोऽप्येवम् । शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीय- त्वम् । इति तिथ्यादितत्त्वम् ॥


शब्दकल्पद्रुमः

शाट्यायनः || पुं, मुनिविशेषः । इति पुराणम् ॥



Correction: