वाचस्पत्यम्
शाठ्य || न० शठस्य भावः ष्यञ् । शठतायाम् ।
शब्दकल्पद्रुमः
शाठ्यं || क्ली (शठस्य भावः । शठ + ष्यञ् ।)
शठता । (यथा । “शठे शाठ्यं समाचरेत् ॥”)
तत्पर्य्यायः । कपटः २ व्याजः ३ दम्भः ४ उपधिः ५ छद्म ६ कैतवम् ७ कुसृतिः ८ निकृतिः ९ । इत्यमरः ॥ नव अयथार्थ- व्यवहारे । शठ वधे क्लेशकैतवे तालव्यादिः अल् तस्य कर्म्म शाठ्यं ष्ण्यः । कपटादि- षट्कं छद्मनि कुसृत्यादित्रयं चित्तकौटिल्ये इत्येके । कपटादिषट्कं वञ्चनमात्रफलम् । कुसृत्यादित्रिकन्तु हिंसाफलमिति भेदः । इति सर्व्वानन्दो मधुश्च । नवैवैकार्था इति वहवः । इति भरतः ॥ अपि च । “अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च । कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥ अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा । हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥ पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके । उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥” इति शब्दरत्नावली ॥