संस्कृत-शब्दकोशः

शाड्वल शाणपाद

शाण

वाचस्पत्यम्

शाण ||‍ न० शणेन निर्वृत्तम् अण् । शणसूत्रनिर्मिते १ वस्त्रादौ शण—दाने (तेजने) घञ् । (कष्टिपाथर) २ कषपाषाणे ३ अस्त्रादीनां निकषणे तीक्ष्णकरणयन्त्रभेदे मेदि० ४ कर- पत्रे (करात) विश्वः । ५ माषचतुष्कमाने भावप्र० ।


शब्दकल्पद्रुमः

शाणं || क्ली (शणेन निर्म्मितमिति । शण + अण् ।)
शणनिर्म्मितवस्त्रम् । यथा । क्षौमं शाणं वा ब्राह्मणस्य कार्पासं क्षत्त्रियस्य आविकं वैश्यस्य । क्षुमा अतसी तस्या इदं क्षौमं तसरादि । शाणं शणतन्तुभवं तदुभयं ब्राह्मणस्य । इति संस्कारतत्त्वम् ॥


शब्दकल्पद्रुमः

शाणः || पुं, (शण्यते ज्ञायते गुणादिरत्रेति । शण + घञ् ।)
कषपट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः । निकषः ३ कषः ३ । इत्य- मरः ॥ शानः ४ निकसः ५ कसः ६ । इति भरतः ॥ आकषः ७ । इति शब्दरत्नावली ॥ माषचतुष्टयम् । चारि माषा इति भाषा । तत्पर्य्यायः । निष्कः २ टङ्कः ३ । इति वैद्यक- परिभाषा ॥ यथा, —
“माषैश्चतुर्भिः शाणः स्यात् वरणः स निगद्यते । टङ्कः स एव कथितस्तद्द्बयं कोल उच्यते ॥” इति भावप्रकाशः ॥ लौहादीनां निकषः । शानपातर इति भाषा । इति मेदिनी ॥ करपत्रम् । करात् इति भाषा । इति विश्वः ॥



Correction: