शब्दकल्पद्रुमः
शाणी || स्त्री (शणस्य विकारः । शण + अण् । टिड्ढेति ङीप् ।)
शणसूत्रमयी पट्टिका । यथा, —
“शाणीप्रायाणि वस्त्राणि शमीप्राया मही- रुहाः । शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥” इति विष्णुपुराणे ६ अंशे १ अध्यायः ॥ शाणी शणसूत्रमयी पट्टिका तत्तुल्यानि वस्त्राणि । इति तट्टीका ॥ (यथा, महाभारते । ३ । १९४ । १९ । “वस्त्राणां प्रवरा शाणी धान्यानां कोर- दूषकः ॥”)
प्रावरणान्तरम् । ताम्बु इति भाषा । इति मेदिनी ॥ छिद्रवस्त्रम् । यथा । शाणी गोणी छिद्रवस्त्रे । इति हेमचन्द्रः ॥ हस्तकटाक्षादि- सूचणा । इशारा इति पारस्यभाषा । इति शब्दरत्नावली ॥