संस्कृत-शब्दकोशः

शाण्डिल्य शातकुम्भ

शात

वाचस्पत्यम्

शात ||‍ न० शो—क्त । १ सुखे २ तद्वति त्रि० अमरः । ३ छिन्ने ४ कृशे त्रि० विश्वः । ५ दुर्बले ६ निशिते च त्रि० मेदि० । ७ धूस्तूरे पु० अमरः ।


शब्दकल्पद्रुमः

शातं || क्ली (शो + क्तः । “शाच्छोरन्यतरस्याम् ।” ७ । ४ । ४१ । इति पक्षे इत्वाभावः ।)
सुखम् । तद्वति, त्रि । इत्यमरः ॥ (विनाशः । यथा, मुश्रुते । ४ । १ । “पाणिप्राप्तं पाणिदाहं नखशातं करोति च ॥”)


शब्दकल्पद्रुमः

शातः || त्रि (शो + क्तः ।)
दुर्ब्बलः । निशितः । इति मेदिनी ॥ धुस्तूरः । इत्यमरः ॥



Correction: