वाचस्पत्यम्
शातकुम्भ || न० शतकुम्भे गिरौ भवः अण् । १ हिरण्ये अमरः २ धूस्तूरे ३ करवीरे च पु० मेदि० ।
शब्दकल्पद्रुमः
शातकुम्भं || क्ली (शतकुम्भे पर्व्वते भवम् । शत- कुम्भ + अण् ।)
काञ्चनम् । (यथा, माघे । ९ । ९ । “द्रुतशातकुम्भनिभमंशुमतो वपुरर्द्धमग्नवपुषः पयसि ॥”)
धुस्तूरः । इत्यमरः ॥
शब्दकल्पद्रुमः
शातकुम्भः || पुं, करवीरवृक्षः । इति मेदिनी ॥