शब्दकल्पद्रुमः
शान्तिकामः || त्रि (शान्तिं कामयते इति । कम् + णिङ् + अच् ।) शान्त्यभिलाषी । यथा, “श्रीकामः शान्तिकामो वा ग्रहयज्ञं समा- चरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥” इति संस्कारतत्त्वम् ॥